|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.71. अध्यायः 071
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णादिभिः प्रत्युद्गम्यमानैर्युधिष्ठिरादिभिः स्वर्णभारपुरस्कारेण हास्तिनपुरप्रवेशः॥ 1 ॥ ततस्तत्रोपागतेन व्यासेन युधिष्ठिरंप्रत्यश्वमेधप्रशंसनपूर्वकं तत्करणविधानम्॥ 2 ॥ युधिष्ठिरेणाश्वमेधे स्वयं दीक्षास्वीकारं प्रार्थितेन कृष्णेन सहेतुकथनं तम्प्रत्येव दीक्षास्वीकारविधानम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः।
वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः।
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया॥ 14-71-1(94446)
ते समेत्य तथाधर्मं पाण्डवा वृष्णिभिः सह।
विविशुः सहिता राजन्पुरं वारणसाह्वयम्॥ 14-71-2(94447)
विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह।
द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम्॥ 14-71-3(94448)
ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा।
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः॥ 14-71-4(94449)
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्।
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे॥ 14-71-5(94450)
धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम्।
कुन्तीं च राजशार्दूल तदा भरतसत्तम॥ 14-71-6(94451)
विदुरं यूजयित्वा च वैश्यापुत्रं समेत्य च।
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते॥ 14-71-7(94452)
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्।
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत॥ 14-71-8(94453)
तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः।
पूजार्हं पूजयामासुः कृष्णं देवकीनन्दनम्॥ 14-71-9(94454)
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः।
आजगाम महातेजा नगरं नागसाह्वयम्॥ 14-71-10(94455)
तस्य सर्वे यथान्यायं पूजा चक्रुः कुरूद्वहाः।
सह वृष्ण्यन्धकव्याघ्रैरुपासांचक्रिरे तदा॥ 14-71-11(94456)
तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै।
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्॥ 14-71-12(94457)
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम्।
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ॥ 14-71-13(94458)
तमनुज्ञातुमिच्छामि भवता मुनिसत्तम।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः॥ 14-71-14(94459)
व्यास उवाच। 14-71-15x(7916)
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता॥ 14-71-15(94460)
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्।
तेनेष्ट्वा त्वं विपात्मा वै भविता नात्र संशयः॥ 14-71-16(94461)
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम्॥ 14-71-17(94462)
समनुज्ञाप्य तत्सर्वं कृष्मद्वैपायनं नृपः।
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत्॥ 14-71-18(94463)
देवकी सुप्रजा देवी त्वया पुरुषसत्तम।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत॥ 14-71-19(94464)
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही॥ 14-71-20(94465)
दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्॥ 14-71-21(94466)
त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥ 14-71-22(94467)
वासुदेव उवाच। 14-71-23x(7917)
त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिंदम।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥ 14-71-23(94468)
त्वं चाद्यि कुरुवीराणां धर्मेण हि विराजसे।
गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः।
यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया॥ 14-71-24(94469)
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ॥ 14-71-25(94470)
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे॥ ॥ 14-71-26(94471)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकसप्ततितमोऽध्यायः॥ 71 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-71-7 वैश्यापुत्रं युयुत्सुम्॥ 7-71-16 पावनः नाशकः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|